विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।
सम्प्रति संस्कृतविकिसूक्तौ ४,७८३ पृष्ठानां सङ्ग्रहः विद्यते ।
बुधवासरः, डिसेम्बर् ४, २०२४; समयः- १२:०१ UTC
आरे बाधस्व दुच्छुनाम् ॥ (ऋग्वेदः ९-६६-१९, सामवेदः ६२७)
दुष्टान् वेगान् दूरीकुरु ।
अपदो दूरगामी च साक्षरो न च पण्डितः। अमुखः स्फुटवक्ता च यो जानाति स पण्डितः॥ पादौ न विद्येते चेदपि बहु दूरं गच्छति । अक्षरज्ञानं विद्यते चेदपि पण्डितः न । मुखरहितः चेदपि स्फुटं वक्तुं समर्थः अस्ति । किं तत् ?
उत्तरम्
शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम् । जपयज्ञश्च यज्ञेषु रोचते लाभशालिनाम् ॥ लोभयुक्तं जनं पृच्छन्तु भवन्तः - ‘धार्मिककार्येषु किं भवतः प्रियम् ?’ इति । सः वदेत् - ‘उपवासः एव मम प्रियः’ इति । यतः तदर्थं वराटिकाव्ययः अपि कारणीयः नास्ति । ‘चिकित्साक्रमे कः योग्यः ?’ इति पृष्टः लोभी वदेत् - ‘लङ्घनं (निराहारस्थितिः) परमौषधम्’ इति । यतः अत्रापि व्ययप्रसक्तिः सर्वथा नास्ति । ‘यज्ञेषु कः यज्ञः प्रियः ?’ इति पृष्टः सः वदेत् - ‘व्ययं विनैव कर्तुं शक्यः नामजपयज्ञः एव मम प्रियः’ इति । एवं यत् व्ययं विना सिद्ध्येत् तदेव रोचते लोभिने ।
विविधासु भाषासु विकिसूक्तिः उपलभ्यते -
മലയാളം (Malayalam) – தமிழ் (Tamil) – తెలుగు (Telugu) – English – Afrikaans – Albanian – العربية (Arabic) – Հայերեն (Armenian) – Azeri – Basque – Bosnian – Български (Bulgarian) – Catalan – 中文 (Chinese) – Croatian – Czech – Danish – Dutch – Esperanto – Estonian – Finnish – French – Galician – ქართულ (Georgian) – German – Ελληνικά (Greek) – עברית (Hebrew) – Hungarian – Icelandic – Indonesian – Italian – 日本語 (Japanese) – 한국어 (Korean) – Kurdish – Limburgian – Lithuanian – Norwegian (Bokmål) – Norwegian (Nynorsk) – فارسی (Persian) – Polish – Portuguese – Romanian – Русский (Russian) – Српски (Serbian) – Slovak – Slovenian – Spanish – Swedish – ไทย (Thai) – Turkish – Українська (Ukrainian) – Vietnamese – Welsh